|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.64. अध्यायः 064
Mahabharata - Shalya Parva - Chapter Topics
जनमेजयेन गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम्॥ 1 ॥ कृष्णेन गान्धारीधृतराष्ट्रो समाश्वास्य पुनः पाण्डवसमीपागमनम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
जनमेजय उवाच। 9-64-0x(5253)(63775)
किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः।
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम्॥ 9-64-1(63776)
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति।
न च तं लब्धवान्कामं ततो युद्धमभूदिदम्॥ 9-64-2(63777)
निहतेषु तु योधेषु हते दुर्योधने तदा।
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि॥ 9-64-3(63778)
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे।
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः॥ 9-64-4(63779)
न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे।
यत्रागमदमेयात्मा स्वयमेव जनार्दनः॥ 9-64-5(63780)
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम।
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये॥ 9-64-6(63781)
वैशम्पायन उवाच। 9-64-7x(5254)
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव।
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ॥ 9-64-7(63782)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे।
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम्॥ 9-64-8(63783)
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत।
युधिष्ठिरं महाराज महद्भयमथाविशत्॥ 9-64-9(63784)
सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम्।
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्॥ 9-64-10(63785)
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा।
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्॥ 9-64-11(63786)
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्।
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति॥ 9-64-12(63787)
कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति।
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्॥ 9-64-13(63788)
एवं विचिन्त्य बहुधा भयशोकसमन्वितः।
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत॥ 9-64-14(63789)
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्।
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत॥ 9-64-15(63790)
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे।
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन॥ 9-64-16(63791)
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्।
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः॥ 9-64-17(63792)
साह्यं तथा महाबाहो दत्तमस्माकमच्युत।
सारथ्येन च वार्ष्णेय भवता हि धृता वयम्॥ 9-64-18(63793)
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे।
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः॥ 9-64-19(63794)
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्।
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः॥ 9-64-20(63795)
अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः।
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे॥ 9-64-21(63796)
ते च ते सफला जाता हते दुर्योधनेऽच्युत।
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु॥ 9-64-22(63797)
सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति।
गान्धार्या हि महाबाहो क्रोधं शमय माधव॥ 9-64-23(63798)
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता।
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति।
तस्या प्रसादनं वीर प्राप्तकालं मतं मम॥ 9-64-24(63799)
कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम्।
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम॥ 9-64-25(63800)
तत्र मे गमनं प्राप्तं रोचते तव माधव।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम॥ 9-64-26(63801)
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः।
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः॥ 9-64-27(63802)
क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि।
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति॥ 9-64-28(63803)
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्।
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना॥ 9-64-29(63804)
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः।
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम्॥ 9-64-30(63805)
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः।
न्यवेदयद्रथं सज्जं केशवाय महात्मने॥ 9-64-31(63806)
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः।
जगाम हास्तिनपुरं त्वरितः केशवो विभुः॥ 9-64-32(63807)
ततः प्रायान्महाराज माधवो भगवान्रथी।
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान्॥ 9-64-33(63808)
प्रविश्य नगरं वीरो रथघोषेण नादयन्।
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्।
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्॥ 9-64-34(63809)
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्॥ 9-64-35(63810)
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः।
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः॥ 9-64-36(63811)
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः।
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह॥ 9-64-37(63812)
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम्।
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि।
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः॥ 9-64-38(63813)
न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत।
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो॥ 9-64-39(63814)
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः।
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत॥ 9-64-40(63815)
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः।
द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः॥ 9-64-41(63816)
अज्ञातवासचर्या च नानावेषसमावृतैः।
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा॥ 9-64-42(63817)
मया च स्वयमागम्य युद्धकाल उपस्थिते।
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः॥ 9-64-43(63818)
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः।
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्॥ 9-64-44(63819)
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च।
द्रोणेन च सपुत्रेण विदुरेण च धीमता।
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि॥ 9-64-45(63820)
कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत।
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते॥ 9-64-46(63821)
किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम्।
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय॥ 9-64-47(63822)
अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्।
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप॥ 9-64-48(63823)
एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम्।
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति॥ 9-64-49(63824)
कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम्।
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम्॥ 9-64-50(63825)
त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी।
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम्॥ 9-64-51(63826)
एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम्।
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ॥ 9-64-52(63827)
जानासि च महाबाहो धर्मराजस्य या त्वयि।
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः॥ 9-64-53(63828)
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्।
दह्यते स दिवारात्रौ न च शर्माधिगच्छति॥ 9-64-54(63829)
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्।
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति॥ 9-64-55(63830)
हिया च परयाऽविष्टो भवन्तं नाधिगच्छति।
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम्॥ 9-64-56(63831)
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः।
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्॥ 9-64-57(63832)
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते।
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे॥ 9-64-58(63833)
जानासि च यथा राज्ञि सभायां मम सन्निधौ।
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम्॥ 9-64-59(63834)
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम्।
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः॥ 9-64-60(63835)
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः।
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे॥ a6-64-61(63836)
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः।
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन॥ 9-64-62(63837)
शक्ता चासि महाभागे पृथिवीं सचराचराम्।
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्॥ 9-64-63(63838)
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्।
एवमेतन्महाबाहो यथा वदसि केशव॥ 9-64-64(63839)
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम।
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन॥ 9-64-65(63840)
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव।
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर॥ 9-64-66(63841)
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा।
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह॥ 9-64-67(63842)
तत एनां महाबाहुः केश्वः शोककर्शिताम्।
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः॥ 9-64-68(63843)
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः।
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः॥ 9-64-69(63844)
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च।
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्॥ 9-64-70(63845)
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः।
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः॥ 9-64-71(63846)
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता॥ 9-64-72(63847)
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्।
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्॥ 9-64-73(63848)
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय।
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन॥ 9-64-74(63849)
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः॥ 9-64-75(63850)
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम्।
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः॥ 9-64-76(63851)
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह।
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप॥ 9-64-77(63852)
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्।
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः॥ ॥ 9-64-78(63853)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि चतुःषष्टितमोऽध्यायः॥ 64 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-64-27 हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः। कारणानि अदृष्टान्यवश्यंभावीनि तैर्युक्तानि तैर्युक्तानि तैः॥ 9-64-33 प्रायादगच्छत्॥ 9-64-34 विदितं धृताराष्ट्रस्येति झ.पाठः॥ 9-64-36 कृष्णस्य व्यासस्य॥ 9-64-49 असूयां पाण्डुपुत्रोष्विति झ.पाठः॥ 9-64-64 चतुःषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|